|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.225. अध्यायः 225
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युदिष्ठिरंप्रति कुमारोत्पत्तिप्रकारकथनारम्भः ॥ 1 ॥ देवसेनानां नायकसंपादनाय चिन्तयता इन्द्रेण मानसशैले कस्याश्चित्कन्याया अवलोकनम् तस्याः कुलचिकीर्षितादिप्रश्नश्च ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-225-0x(2531)(24735)
अग्नीनां विविधा वंशाः कीर्तितास्ते मयाऽनघ।
शुणु जन्म तु कौरव्य कार्तिकेयस् धीमतः ॥ 3-225-1(24736)
अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम्।
जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् ॥ 3-225-2(24737)
देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम्।
तत्राजयन्सदा देवान्दानवा घोररूपिणः ॥ 3-225-3(24738)
वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः।
स सैन्यनायकार्थाय चिन्तयामास वासवः ॥ 3-225-4(24739)
देवसेनां दानवैर्हि भग्नां दृष्ट्वा महाबलः।
पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया ॥ 3-225-5(24740)
स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम्।
शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा ॥ 3-225-6(24741)
अभिधावतु मां कश्चित्पुरुषस्त्रातु चैव ह।
पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे ॥ 3-225-7(24742)
पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव।
एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः ॥ 3-225-8(24743)
किरीटिनं गदापाणिं धातुमन्तमिवाचलम्।
हस्ते गृहीत्वा कन्यां तामथैनं वासवोऽब्रवीत् ॥ 3-225-9(24744)
अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि।
वज्रिणं मांविजानीहि विरमास्याः प्रबाधनात् ॥ 3-225-10(24745)
केश्युवाच। 3-225-11x(2532)
विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया।
क्षमं तेजीवतो गनतुं स्वपुरं पाकशासन ॥ 3-225-11(24746)
एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै।
तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः ॥ 3-225-12(24747)
अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत्।
`महामेघप्रतीकाशं चलत्पावकसंकुलम् ॥ 3-225-13(24748)
तदापन्ततं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः।
बिभेद राजन्वज्रेण भुवि तन्निपपात ह ॥ 3-225-14(24749)
पतता तु तदा केशी तेन शृङ्गेण ताडितः।
हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः ॥ 3-225-15(24750)
अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत्।
कासि कस्यसि किंचेह कुरुषे त्वं शुभानने ॥ 3-225-16(24751)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि पञ्चविंसत्यधिकशततमोऽध्यायः ॥ 225 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-225-2 अद्भुतस्याग्नेः। अद्भुतं अभिवनम् ॥ 3-225-6 स्त्रिया देवसेनाभिमानिदेवतया ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|